|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.277. अध्यायः 277
Mahabharata - Vana Parva - Chapter Topics
रावणोपद्रितदेवगणप्रार्थितेन ब्रह्मणा श्रीहरे रामत्वेन प्रादुर्भावनिवेदनपूर्वकं तान्प्रति तत्साहाय्यार्थं वानरादिभावेन जननचोदना ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-277-0x(2697)(26524)
ततो ब्रह्मर्षयः सर्वे सिद्धा देवर्षयस्तथा।
हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः ॥ 3-277-1(26525)
अग्निरुवाच। 3-277-2x(2698)
योसौ विश्रवसः पुत्रो दशग्रीवो महाबलः।
अवध्यो वरदानेन कृतो भगवता पुरा ॥ 3-277-2(26526)
स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः।
ततो नस्त्रातु भगवान्नान्यस्त्राता हि विद्यते ॥ 3-277-3(26527)
ब्रह्मोवाच। 3-277-4x(2699)
न स देवासुरैः शक्यो युद्धे जेतुं विभावसो।
विहितं तत्रयत्कार्यमभितस्तस्य निग्रहः ॥ 3-277-4(26528)
तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः।
विष्णुः प्रहरतां श्रेष्ठः स तत्कर्म करिष्यति ॥ 3-277-5(26529)
मार्कण्डेय उवाच। 3-277-6x(2700)
पितामहस्ततस्तेषां संनिधौ शक्रमब्रवीत्।
सर्वैर्देवगणैः सार्धं संभव त्वं महीतले ॥ 3-277-6(26530)
विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः।
जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् ॥ 3-277-7(26531)
`ते यथोक्ता भगवता तत्प्रतिश्रुत्य शासनम्।
ससृजुर्देवगन्धर्वाः पुत्रान्वानररूपिणः' ॥ 3-277-8(26532)
ततो भागानुभागेन देवगन्धर्वदानवाः।
अवतर्तुं महीं सर्वे मन्त्रयामासुरञ्जसा ॥ 3-277-9(26533)
`अवतेरुर्महीं स्वर्गादंशैश्च सहिताः सुराः।
ऋषयश्च महात्मानः सिद्धाश्च सह किन्नरैः।
चारणाश्चासृजन्घोरान्वानरान्वनचारिणः ॥ 3-277-10(26534)
यस्य देवस्य यद्रूपं वेषस्तेजश्च यद्विधम्।
अजायन्त समास्तेन तस्य तस्य सुतास्तदा' ॥ 3-277-11(26535)
तेषां समक्षं गन्धर्वी दुन्दुभीं नाम नामतः।
शशास वरदो देवो गच्छ कार्यार्थसिद्धये ॥ 3-277-12(26536)
पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः।
मन्थरा मानुषे लोके कुब्जा समभवत्तदा ॥ 3-277-13(26537)
शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः।
वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् ॥ 3-277-14(26538)
तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च।
भेत्तारो गिरिशृङ्गाणां सालतालशिलायुधाः ॥ 3-277-15(26539)
वज्चसंहननाः सर्वेसर्वेऽमोघवलास्तथा।
कामवीर्यबलाश्चैवसर्वे बुद्धिविशारदाः ॥ 3-277-16(26540)
नागायुतसमप्राणा वायुवेगसमा जवे।
यथेच्छविनिपाताश्च केचिदत्र वनौकसः ॥ 3-277-17(26541)
एवं विधाय तत्सर्वं भगवाँल्लोकभावनः।
मन्थरां बोधयामास यद्यत्कार्यं त्वया तथा ॥ 3-277-18(26542)
सा तद्वच समाज्ञाय तथा चक्रे मनोजवा।
इतश्चेतश्च गच्छन्ती वैरसंधुक्षणे रता ॥ 3-277-19(26543)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वाणि सप्तसप्तत्यधिकद्विशततमोऽध्यायः ॥ 277 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-277-3 विप्रकारैर्विविधैः प्रकारैः ॥ 3-277-15 ओजसा तेजसा युक्तान्यशसा इति थ. ध. पाठः ॥ 3-277-16 वज्रसंहननाः वज्रवद्दृढाङ्गाः ॥ 3-277-17 यत्रेच्छकनिवसाश्च इति ख. झ. पाठः। यत्रेच्छा तत्रैव निवासो येषां ते यत्रेच्छकनिवासाः ॥ 3-277-18 यद्यत्कार्यं कैकेयीप्रलोभनं रामप्रव्राजनादि च ॥ 3-277-19 संधुक्षणे दीपने ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|